ch 1
अस्ति देविं परब्रह्मस्वरूपो निष्कलः शिवः । सर्वज्ञः सर्वकर्त्ता च सर्वेशो निर्मलोऽद्वयः ॥७॥ स्वयं ज्योतिरनाद्यन्तो निवीकारः परात् परः । निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः ॥८॥
प्रतिजन्म प्रपद्यन्ते मानुषा मूढचेतसः । सूक्ष्मलिङ्गशरीरन्तदामोक्षादक्षयं प्रिये ॥११॥
चतुवीधशरीराणि धृत्वा धृत्वा सहस्रशः । सुकृतान्मानवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् ॥१३॥
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् । न मानुष्यं विना यत्र तत्त्वज्ञानं तु लभ्यते ॥१४॥
अत्र जन्मसहस्रेषु सहस्रैरपि पार्वति । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥१५॥
सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् । यस्तारयति नात्मानं तस्मात् पापतरोऽत्र कः ॥१६॥
ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् । न वेत्त्यात्महितं यस्तु स भवेत् आत्मघातकः ॥१७॥
विना देहेन कस्यापि पुरुषार्थो न विद्यते । तस्माद्देहधनं प्राप्य पुण्यकर्माणि साधयेत् ॥१८॥
रक्षेत् सर्वात्मनात्मानम् आत्मा सर्वस्य भाजनम् । रक्षणे यत्नमातिष्ठेत् यावत्तत्त्वं न पश्यति ॥१९॥
पुनर्ग्रामाः पुनः क्षेत्रं पुनवीत्तं पुनर्गृहम् । पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥२०॥
शरीररक्षणायासः क्रियते सर्वदा जनैः । नहीच्चन्ति तनुत्यागमपि कुष्ठादिरोगतः ॥२१॥
तद्गोपितं स्याद् यत्नेन धर्मो ज्ञानार्थमेव च । ज्ञानञ्च ध्यानयोगार्थं सोऽचिरात् परिमुच्यते ॥२२॥
आत्मैव यदि नात्मानमहितेभ्यो निवारयेत् । कोऽन्यो हितकरस्तस्मादात्मानं तारयिष्यति ॥२३॥
व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत् । निघ्नन्ति रिपुवद्रोगास्तस्माच्च्रेयः समाचरेत् ॥२६॥
यावन्नाश्रयते दुःखं यावन्नायान्ति चापदः । यावन्नेन्द्रियवैकल्यं तावच्च्रेयः समाचरेत् ॥२७॥
कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः । सुखदुःखरतो जन्तुर्न वेत्ति हितमात्मनः ॥२८॥
सम्पदः स्वप्नसङ्काशा यौवनं कुसुमोपमम् । तडिच्चञ्चलमायुश्च कस्य स्याज्जगतो धृतिः ॥३०॥
शतं जीवितमत्यल्पं निद्रा स्यादर्द्धहारिणी । बाल्यरोगजरादुःखैरर्द्धं तदपि निष्फलम् ॥३१॥
तोयफेनसमे देहे जीवे शकुनिवत् स्थिते । अनित्येऽप्रियसंसारे कथं तिष्ठन्ति निर्भयाः ॥३३॥
प्रतिक्षणमयं कायो जीर्यमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णो नैव भाव्यते ॥३७॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते ॥३८॥
श्वःकार्यमद्य कर्त्तव्यं पूर्वाह्णे चापराह्निकम् । न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम् ॥४२॥
आशा सूचीविनिभीन्नं सिक्तं विषयसपीषा । रागद्वेषानले पक्वं मृत्युरश्नाति मानवम् ॥४४॥
दारिद्र्यदुःखरोगाश्च बन्धनव्यसनानि च । आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥५४॥
निःसङ्ग एव मोक्षः स्याद्दोषाः सर्वे च सङ्गजाः । तस्मात् सङ्गं परित्यज्य तत्त्वनिष्ठः सुखी भवेत् । सङ्गाच्च चलते ज्ञानी चावश्यं किमुताल्पवित् ॥५५॥
सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् । यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः ॥५७॥
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोऽस्य विशन्त्येते हृदये शोकशङ्कवः ॥५८॥
निद्रादिमैथुनाहाराः सर्वेषां प्राणिनां समाः । ज्ञानवान् मानवः प्रोक्तो ज्ञानहीनः पशुः प्रिये ॥६९॥
गृहारण्यसमा लोके गतव्रीडा दिगम्बराः । चरन्ति गर्दभाद्याश्च योगिनस्ते भवन्ति किम् ॥७९॥
मृद्भस्मम्रक्षणाद् देवि मुक्ताः स्युर्यदि मानवाः । मृद्भस्मवासिनो ग्राम्याः किं ते मुक्ता भवन्ति हि ॥८०॥
तृणपर्णोदकाहाराः सततं वनवासिनः । हिरणादिमृगा देवि योगिनस्ते भवन्ति किम् ॥८१॥
आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः । मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् ॥८२॥
शीतवातातपसहा भक्ष्याभक्ष्यसमाः प्रिये । तिष्ठन्ति शूकराद्याश्च योगिनस्ते भवन्ति किम् ॥८५॥
तस्मादित्यादिकं कर्म लोकवञ्चनकारकम् । मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं कुलेश्वरि ॥८६॥
वेदशास्त्रार्णवे घोरे ताड्यमाना इतस्ततः । कालोमीग्राहग्रस्ताश्च तिष्ठन्ति हि कुताकीकाः ॥८८॥
कथयन्त्युन्मनीभावं स्वयं नानुभवन्ति हि । अहङ्कारहताः केचिदुपदेशविवजीताः ॥९३॥
तत्त्वमात्मस्थमज्ञात्त्वा मूढः शास्त्रेषु मुह्यति । गोपः कक्षगतं चागं कूपे पश्यति दुर्मतिः ॥९६॥
संसार मोहनाशाय शाब्दबोधो न हि क्षमः । न निवर्त्तेत तिमिरं कदाचिद्दीपवार्त्तया ॥९७॥
प्रत्यक्षग्रहणं नास्ति वार्त्तया ग्रहणं कुतः । एवं ये शास्त्रसम्मूढास्ते दूरस्था न संशयः ॥१००॥
वेदाद्यनेकशास्त्राणि स्वल्पायुवीघ्नकोटयः । तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसः ॥१०२॥
न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि । ज्ञानादेव हि मुक्तिः स्यान्नान्यथा वीरवन्दिते ॥१०५॥
अद्वैतन्तु शिवेनोक्तं क्रियायासविवजीतम् । गुरुवक्त्रेण लभ्येत नान्यथागमकोटिभिः ॥१०८॥
आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥१०९॥
अद्वैतं केचिदिच्चन्ति द्वैतमिच्चन्ति चापरे । मम तत्त्वं च जानन्ति द्वैताद्वैतविवजीतम् ॥११०॥
द्वे पदे बन्धमोक्षाय ममेति निर्ममेति च । ममेति बाध्यते जन्तुर्न ममेति विमुच्यते ॥१११॥
तत् कर्म यन्न बन्धाय विद्या सा या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥११२॥
यावत् प्रयत्नवेगोऽस्ति यावत् सङ्कल्पकल्पना । यावन्न मनसः स्थैर्यं तावत्तत्त्वकथा कुतः ॥११४॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा । तत्त्वनिष्ठो भवेद्देवि यदीच्चेन्मोक्षमात्मनः ॥११७॥
धर्मज्ञानसुपुष्पस्य स्वर्गलोक फलस्य च । तापत्रयात्तीसन्तप्तश्चायां मोक्षतरोः श्रयेत् ॥११८॥
बहुनात्र किंमुक्तेन रहस्यं शृणु पार्वति । कुलधर्ममृते मुक्तर्नास्ति सत्यं न संशयः ॥११९॥
ch 2
सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परम् । वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥७॥
दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् । सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि ॥८॥
योगी चेन्नैव भोगी स्याद्भोगी चेन्नैव योगवित् । भोगयोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये ॥२३॥
परोक्षं को नु जानीते कस्य किं वा भविष्यति । यद्वा प्रत्यक्षफलदं तदेवोत्तमदर्शनम् ॥८९॥
कृपाणधारागमनात् व्याघ्रकण्ठावलम्बनात् । भुजङ्गधारणान्नूनमशक्यं कुलवर्त्तनम् ॥१२२॥
वृथा पानन्तु देवेशि सुरापानं तदुच्यते । तत्महापातकं ज्ञेयं वेदादिषु निरूपितम् ॥१२३॥
अनुमन्ता विश्वसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्त्ता च खादिताऽष्टौ च घातकाः ॥१३२॥
तृणं वाप्यविधानेन चेदयेन्न कदाचन । विधिना गां द्विजं वापि हत्या पापैर्न लिप्यते ॥१३६॥
मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गताः । पूर्वश्च पश्चिमश्चैव दक्षिणश्चोत्तरस्तथा । ऊर्ध्वाम्नायश्च पञ्चैते मोक्षमार्गाः प्रकीत्तीताः ॥७॥
पूर्वाम्नायः सृष्टिरूपः स्थितिरूपश्च दक्षिणः । संहारः पश्चिमो देवि उत्तरोऽनुग्रहो भवेत् ॥४१॥
मन्त्रयोगं विदुः पूर्वं भक्तियोगञ्च दक्षिणम् । पश्चिमं कर्मयोगञ्च ज्ञानयोगं तथोत्तरम् ॥४२॥
श्रीप्रासादपरामन्त्रमूर्ध्वाम्नायमधिष्ठितम् । आवयोः परमाकारं यो वेत्ति स स्वयं शिवः ॥४९॥
शिवादिक्रिमिपर्यन्तं प्राणिनां प्राणवर्त्मना । निश्वासोच्च्वासरूपेण मन्त्रोऽयं वर्त्तते प्रिये ॥५०॥
पराप्रासादमन्त्रेण ये वा मन्त्रा न सङ्गताः । ते फलं न प्रयच्चन्ति मन्त्रं शक्तिविवजीताः ॥५८॥
मन्त्रमात्रन्तु यो वेत्ति पराप्रासादसंज्ञकम् । श्वपचोऽपि हि मुच्येत किं पुनस्तद्विधानवित् ॥७५॥
अरूपं भावनागम्यं परं ब्रह्म कुलेश्वरि । निष्कलं निर्मलं नित्यं निर्गुणं व्योमसन्निभम् ॥९२॥
अनन्तमव्ययं तत्त्वं मनोवाचामगोचरम् । पराप्रासादमन्त्रार्थसन्धानात् सम्प्रकाशते ॥९३॥
तस्मान्मन्त्रमिदं देवि पराप्रासादसंज्ञकम् । परतत्त्वस्वरूपत्वात् सच्चिदानन्दलक्षणात् ॥९४॥
शिवशक्तिमयत्वाच्च भुक्तिमुक्तिप्रदानतः । सकर्मापि च निष्कर्म सगुणञ्चापि निर्गुणम् ॥९५॥
आगमोक्तेन विधिना क्रमपूजापुरःसरम् । श्रीप्रसादपरामन्त्रं शतमष्टोत्तरं जपेत् । मुच्यते ब्रह्महत्यादिमहापापैश्च पञ्चभिः ॥१०२॥
द्विशतं यो जपेद्देवि श्रीप्रासादपरामनुम् । चतुरशीतिलक्षांशधारणाचरितैरपि ॥१०३॥
त्रिशतं यो जपेद्देवि श्रीप्रासादपरामनुम् । सर्वक्रतुषु यत् पुण्यं सर्वदानेषु यत् फलम् ॥१०६॥
चतुःशतं जपेद् यस्तु श्रीप्रासादपरामनुम् । सदा तस्य गृहद्वारे ह्यणिमाद्यष्टसिद्धयः । सेवन्ते नात्र सन्देहः सर्वसिद्धिसमन्विताः ॥१०८॥
जपेत् पञ्चशतं यस्तु श्रीप्रासादपरामनुम् । तत्फलं नैव शक्नोमि कथितुं कुलनायिके ॥१११॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा । श्रीप्रासादपरामन्त्रं जपेद् भुक्तिविमुक्तये ॥११२॥
नास्ति गुर्वधिकं तत्त्वं न शिवाधिकदैवतम् । न हि वेदाधिका विद्या न कौलसमदर्शनम् ॥११३॥
न कुलादधिकं ज्ञानं न ज्ञानादधिकं सुखम् । नाष्टाङ्गादधिका पूजा न हि मोक्षाधिकं फलम् । इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः ॥११४॥
ch 4
अनन्तचन्द्रभुवनमिन्दुबिन्दुयुगान्वितः । श्रीप्रासादपरामन्त्रो भुक्तिमुक्तिफलप्रदः ॥४॥
पराप्रासादमन्त्रस्तु सादिरुक्तः कुलेश्वरि । प्रकाशानन्दरूपत्वात् प्रत्यक्षफलदानतः ॥५॥
प्रसन्नचित्तवश्यत्वात् प्रसिद्धार्थनिरूपणात् । प्राक्तनाघप्रशमनात् प्रपन्नात्तीविनाशनात् । प्रसादकरणाच्चीघ्रं प्रासादमनुरीरितः ॥६॥
परतत्त्वस्वरूपत्वात् परमात्मप्रकाशनात् । परमानन्दजननात् परधर्मनिदर्शनात् ॥७॥ परोक्षफलदानाच्च परमैश्वर्यकारणात् । परत्वात् सर्वमन्त्राणां परामन्त्र इतीरितः ॥८॥
ऋषिरस्य परः शम्भुश्चन्दश्चाव्यक्तपूवीका । गायत्री देवता चात्र सर्वमन्त्रेश्वरी परा ॥१५॥ दीर्घत्रययुतं मूलं बीजं शक्तिश्च कीलकम् । षड्दीर्घयुक्तमूलबीजेन षडङ्गानि च पार्वति ॥१६॥
यस्य कस्यापि नैवोक्तं तव स्नेहाद्वदाम्यहम् । प्रपञ्चो भुवनं मूतीर्मन्त्रदेवतमातरः । महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः ॥२०॥
तत्रादौ परमेशानि प्रपञ्चन्यास उच्यते । प्रपञ्चद्वीपजलधिगिरिपत्तनपीठकाः ॥२१॥
क्षेत्रं वनाश्रमगुहानदीचत्वरकोद्भिदः । स्वेदाण्डजजरायुजा इत्युक्तास्ते हि षोडश ॥२२॥
पञ्चभूतानि तन्मात्रं ज्ञानकर्मेन्द्रियाणि च । गुणान्तःकरणावस्था ध्यायेद्दोषान् दशानिलान् ॥३१॥
वाग्भवं भुवनेशीञ्च लक्ष्मीबीजं त्रितारकम् । त्रितारमूलीविद्यान्त मातृकाक्षरतः परम् ॥३३॥
वदेत् प्रपञ्चरूपायै श्रियै नम इति क्रमात् । प्रपञ्चादिभिरायोज्य वर्णान शक्तीनीयोजयेत् । मातृकान्याससंप्रोक्तस्थानेष्वेवं न्यसेत् प्रिये ॥३४॥
त्रितारमूलसकलप्रपञ्चादि स्वरूपतः । आयै पराम्बादेव्यैनम उक्त्वा व्यापकं न्यसेत् ॥३५॥
प्रपञ्चन्यास एव स्याद् भुवनन्यास उच्यते । त्रितारमूलमन्त्रान्ते अ आं इं अतलं वदेत् ॥३६॥
लोकञ्च निलयञ्चैव शतकोटिपदं ततः । गुह्याद्या योगिनी मूलङेयुतन्तु वदेत् प्रिये ॥३७॥
एवं न्यस्ततनुर्दैवि ध्यायेद्देवमनन्यधीः । अमृतार्णवमध्योद्यन्मणिद्वीपे सुशोभिते ॥१०८॥
कल्पवृक्षवनान्तःस्थमणि माणिक्यमण्डपे । नवरत्नमय श्रीमत्सिंहासनगतेम्बुजे ॥१०९॥
त्रिकोणान्तःसमासीनं चन्द्रसूर्यायुतप्रभम् । अर्द्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम् ॥११०॥
कोटिकन्दर्पलावण्यं सदा षोडशवाषीकम् । मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रशेखरम् ॥१११॥
एवं चित्ताम्बुजे ध्यायेदर्द्धनारीश्वरं शिवम् । पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् ॥११४॥
अथवा निष्कलं ध्यायेत् सच्चिदानन्दलक्षणम् । सवतेजोमयं देवि सचराचरविग्रहम् ॥११५॥
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम् वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् । प्रसन्नवदनेक्षणं सकलदेवतारूपिणम् स्मरेत् शिरसि हंसगं तदभिधानपूर्वं गुरुम् ॥११८॥
महाषोढाह्वयं न्यासं यः करोति दिने दिने । देवाः सर्वे नमस्यन्ति तं नमामि न संशयः ॥१२०॥
वज्रपञ्जरनामानमेतं न्यासं करोति यः । दिव्यन्तरीक्षभूशैलजलारण्यनिवासिनः ॥१२४॥ प्रचण्डभूतवेतालदेवरक्षोग्रहादयः । भयग्रस्तेन मनसा नेक्षन्ते तं कुलेश्वरि ॥१२५॥
ऊर्ध्वाम्नायप्रवेशश्च पराप्रासादचिन्तनम् । महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ॥१२९॥

Muni's Play