चैतन्यं चित्क्रियारूपं शिवस्य परमस्य यत् । स्वातन्त्र्यमेतदेवात्मा ततोऽसौ परमः शिवः ॥ १ ॥

उद्यमो भैरव इति प्रोक्तरूपं स्फुरद्वपुः । तुर्यं नाम परं धाम तदाभोगश्चमत्क्रिया ॥ १ ॥

निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये । परे स्वात्मन्यतृप्त्यैव यदाश्चर्यं स विस्मयः ॥ २ ॥

हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् । इत्युक्तनीत्या हृदयं विश्वविश्रान्तिभित्तिभूः ॥ १ ॥

शुद्धं तत्त्वं परं वस्तु यत्तत्परशिवात्मकम् । तत्संधानं प्रपञ्चस्य तन्मयत्वेन भावनम् ॥ १ ॥

वितर्कः प्रोक्तसंधानध्वस्तबन्धस्य योगिनः । विश्वात्मा शिव एवाहमस्मीत्यर्थविचिन्तनम् ॥ १ ॥

ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽयं सम्बन्धे सावधानता ॥ २ ॥

पूर्णाहंतानुसंध्यात्मस्फूर्जन्मननधर्मता । संसारक्षयकृत्त्राणधर्मता च निरुच्यते ॥ ३ ॥

शून्यं धीः प्राण इत्येतत्सृज्यते क्षीयतेऽपि च । स्थैर्यमस्ति परं देहापेक्षया न तु तत्त्वतः ॥ १ ॥

धीगुणान् समतिक्रम्य निर्ध्येयं चाव्ययं विभुम् । ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच्च विदुर्बुधाः ॥ ५ ॥

धारणा परमात्मत्वं धार्यते येन सर्वदा । धारणा सा विनिर्दिष्टा भवबन्धविनाशिनी ॥ ६ ॥

स्वपरस्थेषु भूतेषु जगत्यस्मिन् समानधीः । शिवोऽहमद्वितीयोऽहं समाधिः स परः स्मृतः ॥ ७ ॥

नृत्यत्यन्तःपरिच्छन्नस्वस्वरूपावलम्बनाः । स्वेच्छया स्वात्मचिद्भित्तौ स्वपरिस्पन्दलीलया ॥ १ ॥

रज्यतेऽस्मिन् जगन्नाट्यक्रीडाकौतुकिनात्मना । इति रङ्गोऽन्तरात्मेति जीवः पुर्यष्टकात्मकः ॥ १ ॥