एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः।
सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते॥११५॥
अस्य स्यात्पुष्टिरित्येषा संविद्देवी तयोदितात्।
ध्यानात्सञ्जल्पसम्मिश्राद्व्यापाराच्चापि बाह्यतः॥११६॥
स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा।
पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम्॥११७॥
अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते।
ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा॥११८॥
दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह।
तं बीजभावमागत्य संविदं स्फुटयन्ति ताम्॥११९॥
पुष्टिं कुरु रसेनैनमाप्याययतरामिति।
सञ्जल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत्॥१२०॥
अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम्।
तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम्॥१२१॥
तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते।
अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिः क्रमात्॥१२२॥

Muni's Play