chapter 3 summary verse
अन्तर्विभाति सकलं जगदात्मनीह यद्वद्विचित्ररचना मुकुरान्तराले। बोधः परं निजविमर्शरसानुवृत्त्या विश्वं परामृशति नो मुकुरस्तथा तु॥७॥
chapter 5 verse on meditation
स्वप्रकाशं समस्तात्मतत्त्वं मात्रादिकं त्रयम्। अन्तःकृत्य स्थितं ध्यायेद्धृदयानन्दधामनि॥
ch 9
भूम्यादौ तत्त्वजाले न हि भवति वपुस्तादृशं यत्प्रमातुः संविद्विश्रान्तिवन्ध्यं स्फुरति स बहुधा मातृभावोऽस्य यस्मात्। तेनास्मिन्वेद्यजाले क्रमगतकलनां निर्विकल्पामहन्तास्वातन्त्र्यामर्शसारां भुवमधिवसत प्राप्नुत स्वात्मसत्ताम्॥
ch 11
यथा निरर्गलस्वात्मस्वातन्त्र्यात्परमेश्वरः। आच्छादयेन्निजं धाम तथा विवृणुयादपि॥ अप्रबुद्धेऽपि वा धाम्नि स्वस्मिन्बुद्धवदाचरेत्। भूयो बुद्ध्येत वा सोऽयं शक्तिपातोऽनपेक्षकः॥
ch 13
समस्वभावनिर्भरात्मनि विश्वभावार्पणं तदेव पूजनं यदेव तन्मयीभवनं तद् ध्यानं यत् तथाविधान्तःपरामर्शसद्भावनादान्दोलनं स जपो यत् तथाविधपरामर्शक्रमप्रबुद्धमहातेजसा तथाबलादेव विश्वात्मीकरणं स होमस्तदेवं कृत्वा परिवारं तत एव वह्निराशेर्विस्फुलिङ्गवद्ध्यात्वा तथैव पूजयेत्।
द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन्। देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत्॥ मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका। खेचरीयं खसञ्चारस्थितिभ्यां खामृताशनात्॥
ch 16
मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन्व्याप्तुमीष्टे। यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं सञ्छाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः॥
एतेनाच्छादनीयं व्रजति परवशं सम्मुखीनत्वमादौ पश्चादानीयते चेत्सकलमथ ततोऽप्यध्वमध्याद्यथेष्टम्। आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशम्भुनाथागमपरिगमितो जालनामा मयोक्तः॥
ch 20
अधिशय्य पारमार्थिकभावप्रसरं प्रकाशमुल्लसति या। परमामृतदृक्त्वां तयार्चयन्ते रहस्यविदः॥
कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः। आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात्त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम्॥
नित्यं नैमित्तिकं कर्म कुर्वञ्शाठ्यविवर्जितः। विनापि ज्ञानयोगाभ्यां चर्यामात्रेण मुच्यते॥
ch 21
संवित्प्रकाशपरमार्थतया यथैव भात्यामृशत्यपि तथेति विवेचयन्तः। सन्तः समस्तमयचित्प्रतिभाविमर्शसारं समाश्रयत शास्त्रमनुत्तरात्म॥
ch 22
शून्याशून्यालयं कुर्यादेकदण्डेऽनलानिलौ। शूलं समरसीकृत्य रसे रसमिव स्थितम्॥ त्यक्ताशङ्को निराचारो नाहमस्मीति भावयन्। देहस्था देवताः पश्यन् ह्लादोद्वेगादि चिद्घने॥ कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम्। ग्रहीतारं सदा पश्यन् खेचर्या सिध्यति ध्रुवम्॥
Important Sections & Translations
- The Twelve Kālīs (Dvādaśa Kālī) — Āhnika 4: The 12-phase cognitive cycle of the Krama system, detailing the reabsorption of the universe into pure Consciousness.

Muni's Play