रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १॥
कामः सङ्कल्पसन्देहौ श्रद्धाऽश्रद्धे धृतीतरे । ह्रीर्धीर्भीरित्येवमादीन् भासयत्येकधा चितिः ॥ ४॥
छायाऽहङ्कारयोरैक्यं तप्तायःपिण्डवन्मतम् । तदहङ्कारतादात्म्याद्देहश्चेतनतामगात् ॥ ७॥
अहङ्कारस्य तादात्म्यं चिच्छायादेहसाक्षिभिः । सहजं कर्मजं भ्रान्तिजन्यं च त्रिविधं क्रमात् ॥ ८॥
सम्बन्धिनोः सतोर्नास्ति निवृत्तिः सहजस्य तु । कर्मक्षयात् प्रबोधाच्च निवर्तेते क्रमादुभे ॥ ९॥
अन्तःकरणवृत्तिश्च चितिच्छायैक्यमागता । वासनाः कल्पयेत् स्वप्ने बोधेऽक्षैर्विषयान् बहिः ॥ ११॥
मनोऽहङ्कृत्युपादानं लिङ्गमेकं जडात्मकम् । अवस्थात्रयमन्वेति जायते म्रियते तथा ॥ १२॥
शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् । विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् ॥ १३॥
सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि । अब्धौ फेनादिवत् सर्वनामरूपप्रसारणा ॥ १४॥
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः । आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥ १५॥
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ २०॥
खवाय्वग्निजलोर्वीषु देवतिर्यङ्नरादिषु । अभिन्नाः सच्चिदानन्दाः भिद्येते रूपनामनी ॥ २१॥
उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः । समाधिं सर्वदा कुर्याद्-हृदये वाऽथवा बहिः ॥ २२॥
असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः । अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः ॥ २५॥
स्वानुभूतिरसावेशाद्दृश्यशब्दावुपेक्ष्य तु । निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ॥ २६॥
अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम् । इत्यविच्छिन्नचिन्तेयं समाधिर्मध्यमो भवेत् ॥ २८॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ३१॥
ब्रह्मण्यवस्थिता माया विक्षेपावृतिरूपिणी । आवृत्याखण्डतां तस्मिन् जगज्जीवौ प्रकल्पयेत् ॥ ३५॥
प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके । तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥ ४६॥

Muni's Play