अथ वरदातन्त्रोक्त मन्त्रार्थाभिधानम् १० शिव उवाच । ___ मन्त्रार्थ कथयाम्यद्य शृणुष्व परमेश्वरि । विना येन न सिद्धयेत्त साधन : कोटिशः शिवे ।। आदी प्रसादबीजस्य मन्त्रार्थ शृणु पार्वति । शिववाची हकारस्तु औकारः स्यात् सदाशिवः ।। शून्यं दुःखहरार्थन्तु तस्मात्तन शिवं यजेत् ।। हौं । द दुर्गावाचकं देवि ऊकारश्चापि रक्षणे । विश्वमाता नादरूपः कुर्वर्थो बिन्दुरूपकः ॥ तस्मात्तेनैव बोजेन दुर्गामाराधयेच्छिवे ॥ ९ ॥ क काली ब्रह्म र प्रोक्तं महामायार्थकश्च ई। विश्वमात्रर्थको नादो बिन्दुर्दुःखहरार्थकः ।। तेनैव कालिकादेवीं पूजयेद् दुःखशान्तये ॥ क्रीं ।। हकार: शिववाची स्यात् रेफः प्रकृतिरुच्यते ।। महामायार्थ ई-शब्दो नादो विश्वप्रसूः स्मृतः ।। दु:खहरार्थको बिन्दुर्भुवनान्तेन पूजयेत् ॥ ह्रीं ॥ महालक्ष्म्यर्थक: श: स्याद् धनार्थो रेफ उच्यते । ईस्तुष्टयर्थो परो नादो बिन्दुर्दु:खहरार्थकः ॥ . लक्ष्मीदेव्या बीजमेतत्ते न देवीं प्रपूजयेत् ॥ श्रौं । सरस्वत्यर्थ ऐ-शब्दो बिन्दुर्दु:खहरार्थकः । सरस्वत्या बोजमेतत्ते न वाणी प्रपूजयेत् ।। ऐं। कः कामदेव उद्दिष्टोऽप्यथवा कृष्ण उच्यते । ल: इन्द्र ई तुष्टिवाची सुखदुःखप्रदश्च अं॥ कामबोजार्थ उक्तस्ते तव स्नेहान्महेश्वरि ॥ क्लीं ।। २०

है: शिव: कथितो देवि उ भेरव इहोच्यते । परार्थो नादशब्दस्तु बिन्दुर्दुःखहरार्थकः ॥ धर्मबीजेत्रिभित्र कथितस्तव यत्नतः ॥ हूं। गणेशार्थो ग उक्तस्ते बिन्दुर्दुःखहरार्थकः । गं बीजार्थस्तु कथितं तव स्नेहान्महेश्वरि ॥ गं ॥ गो गणेशव्यापकार्थो लकारस्तेज और्मत: । दुःहराथंको बिन्दुगणेशं तेन पूजयेत् ।। ग्लौं । क्ष नृसिंहो ब्रह्म रश्च ऊर्ध्वदन्तार्थकश्च औ । दु:खहरार्थको बिन्दु सिंह तेन पूजयेत् ॥ क्षौं । नामादिवर्ण: सर्वेषां नाम उक्तं स्वयम्भुवा । तेनंवर्थन्तु जानीयादर्थलग्यातु चिन्तयेत् ॥ यथायथं विभक्त्यर्थ मन्त्राथें चिन्तयेच्छिवे । तत्तवर्णादियोगेन संक्षेपात् कथितं त्वयि ।। दुर्गोत्तारणवाच्यः स तारकार्थस्तकारक: । भुक्त्यर्थो रेफ उक्तोऽत्र महामायार्थकश्च ई ।। विश्वमात्रर्थको नादो बिन्दुवुःहरार्थकः । बधूवीजार्थ उक्तोऽत्र तव स्नेहान्महेश्वरि । स्त्री ॥ यत्र बिन्दुद्वयं मन्त्रे एक दुःखहरार्थकम् । अन्यत् सुखप्रदं देवि ज्ञात्वा चार्थं विचिन्तयेत् ॥ यत्र बिन्दुद्वयं मन्त्रे अन्यत् पूर्णार्थकं मतम् । स्वाहामात्रार्थका देवि परार्था वा प्रकीतिता ।। शक्रमाता वषट् प्रोक्ता हरिप्रियार्थका गिरा। सुरा फट् हयग्रीवे विवि बीजं विनिदिशेत ।। यं बीजं वायुवाची स्यात् लमन्द्रं परिकीर्तितम् । अनेकाक्षरबीजे च स्वस्वबीजं स्वनामकम् ॥ एवं ज्ञात्वा महेशानि मन्त्रार्थ परिचिन्तयेत् । एकबीजद्वयं यत्र पृथगथं प्रकल्पयेत् ।। वीप्सार्थ वा महेशानि ज्ञात्वा मन्त्र जपेद्धिया । इति ते कथितो देवि मन्त्रार्थ परमेश्वरि ॥ इति वरदातन्त्रोक्त-मन्त्रार्थाभिधानं समाप्तम् ।