चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः॥१.५.१३॥

सा स्फुरत्ता महासत्ता देशकालाविशेषिनी।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः॥१.५.१४॥

बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम्।
ज्ञानानामुदियादेकप्रमातृपरिनिष्ठितेः॥१.७.६॥

क्रियासम्बन्धसामान्यद्रव्यदिक्कालबुद्धयः।
सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः॥२.२.१॥

यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते।
आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधिते॥२.३.३॥

ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः।
सामानाधिकरण्यं च सद्विद्याहमिदन्धियोः॥३.१.३॥

स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः।
मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः॥३.२.३॥

भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम्।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम्॥३.२.५॥

साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता।
जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका॥३.२.१४॥


स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः॥४.१॥

सर्वो ममायं विभव इत्येवं परिजानतः।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता॥४.१२॥

सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः।
शिवश्चिदानन्दघनः परमाक्षरविग्रहः॥४.१४॥