Section I: Svarūpaspanda

(Spanda as one’s own nature)

यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ।
तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः॥१॥

यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम्।
तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित्॥२॥

न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते।
अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत्॥८॥

निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः।
यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम्॥९॥

 अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये।
जाग्रदेव निजं भावमचिरेणाधिगच्छति॥२१॥

अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन्।
धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः॥२२॥

यामवस्थां समालम्ब्य यदयं मम वक्ष्यति।
तदवश्यं करिष्येऽहमिति सङ्कल्प्य तिष्ठति॥२३॥

तामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्यावुभावपि।
सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम्॥२४॥

तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे।
सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः॥२५॥

Section II: Sahajavidyodaya

इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत्।
स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः॥५॥

अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि।
तदात्मतासमापत्तिरिच्छतः साधकस्य या॥६॥

इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः।
इयं निर्वाणदीक्षा च शिवसद्भावदायिनी॥७॥

  Section III: Vibhūtispanda

यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान्।
सोमसूर्योदयं कृत्वा सम्पादयति देहिनः॥१॥
तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात्।
नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत्॥२॥

यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि।
भूयः स्फुटतरो भाति स्वबलोद्योगभावितः॥४॥
तथा यत्परमार्थेन येन यत्र यथा स्थितम्।
तत्तथा बलमाक्रम्य न चिरात्सम्प्रवर्तते॥५॥

ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः।
तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका॥८॥

एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः।
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत्॥९॥

अतो विन्दुरतो नादो रूपमस्मादतो रसः।
प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः॥१०॥

प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोक्य गोचरम्।
एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते॥१२॥

स्वरूपावरणे चास्य शक्तयः सततोत्थिताः।
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः॥१५॥

सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका॥१६॥

यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ।
नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत्॥१९॥

  Section IV: Epilogue

अगाधसंशयाम्भोधिसमुत्तरणतारिणीम्।
वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम्॥१॥